|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.262. अध्यायः 262
Mahabharata - Vana Parva - Chapter Topics
देवदूतात्स्वर्गसुखस्यास्थिरतां परिजानता मुद्गलेन स्वर्गानभिरोचनपूर्वकं देवदूतस्य स्वर्गंप्रति प्रस्थापनम् ॥ 1 ॥ व्यासेन युधिष्ठिरंप्रति मुद्गलोपाख्यानकथनपूर्वकं स्वाश्रमंप्रति गमनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
देवदूत उवाच। 3-262-0x(2639)(26008)
महर्षेऽकार्यबुद्धिस्त्वं यः स्वर्गसुखमुत्तमम्।
संप्राप्तं प्रतिपत्तव्यं विमृशस्यबुधो यथा ॥ 3-262-1(26009)
उपरिष्टादयं लोको योऽयं स्वरिति संज्ञितः।
ऊर्ध्वगः सत्पथः शश्वद्देवयानचरो मुने ॥ 3-262-2(26010)
नातप्ततपसः पुंसो नामहायज्ञयाजिनः।
नानृता नास्तिकाश्चैव तत्रगच्छन्ति मुद्गल ॥ 3-262-3(26011)
धर्मात्मानो जितात्मानः शान्ता दान्ता विमत्सराः।
दानधर्मरताः पुंसः शूराश्चाहितलक्षणाः ॥ 3-262-4(26012)
तत्रगच्छन्ति धर्माग्र्यं कृत्वा शमदमात्मकम्।
लोकान्पुण्यकृतां ब्रह्मन्सद्भिराचरितान्नृभिः ॥ 3-262-5(26013)
देवाः साध्यास्तथा विश्वे तथैव च महर्षयः।
यामा धामाश्च मौद्गल्य गन्धर्वाप्सरसस्तथा ॥ 3-262-6(26014)
एषां देवनिकायानां पृथक्पृथगनेकशः।
भास्वन्तः कामसंपन्ना लोकास्तेजोमयाः शुभाः ॥ 3-262-7(26015)
त्रयस्त्रिंशत्सहस्राणि योजनानि हिरण्मयः।
मेरुः पर्वतराड्यत्रदेवोद्यानानि मुद्गल ॥ 3-262-8(26016)
`नन्दनान्यतिरम्याणि तत्रोद्यानानि मुद्गल।
सर्वकामफलैर्वृक्षैः शोभितानि समन्ततः' ॥ 3-262-9(26017)
नन्दनादीनि पुण्यानि विहाराः पुण्यकर्मणाम्।
न क्षुत्पिपासे न ग्लानिर्न शीतोष्णे भयं तथा ॥ 3-262-10(26018)
बीभत्समशुभं वाऽपि रोगो वा तत्र कश्चन।
मनोज्ञाः सर्वतो गन्धाः सुखस्पर्शाश्च सर्वशः ॥ 3-262-11(26019)
शब्दाः श्रुतिमनोग्राह्याः सर्वतस्तत्रवै मुने।
न शोको न जरा तत्र नायासपरिदेवने ॥ 3-262-12(26020)
ईदृशः स मुने लोकः स्वकर्मफलहेतुकः।
सुकृतैस्तत्रपुरुषाः संभवन्त्यात्मकर्मभिः ॥ 3-262-13(26021)
तैजसानि शरीराणि भवन्त्य्रोपपद्यताम्।
कर्मजान्येव मौद्गल्य न मातृपितृजान्युत ॥ 3-262-14(26022)
रन संस्वेदो न दौर्गन्ध्यं पुरीषं मूत्रमेव च।
तेषां न च रजोवस्त्रं बाधते तत्रवै मुने ॥ 3-262-15(26023)
न म्लायन्ति स्रजस्तेषां दिव्यगन्धा मनोरमाः।
समूह्यन्ते विमानैश्च ब्रह्मन्नेवंविधा हि ते ॥ 3-262-16(26024)
ईर्ष्याशोकक्लमापेता मोहमात्सर्यवर्जिताः।
सुखं संर्गजितस्तत्रवर्तयन्ते महामुने ॥ 3-262-17(26025)
तेषां तथाविधानां तु लोकानां मुनिपुङ्गव।
उपर्युपरि शक्रस् लोका दिव्या गुणान्विताः ॥ 3-262-18(26026)
परतो ब्रह्मणस्तस्य लोकस्तेजोमयः शुभः।
यत्र यान्त्यृषयो ब्रह्मन्पूताः स्वैः कर्मभिः शुभैः ॥ 3-262-19(26027)
ऋभवो नाम तत्रान्ये देवानामपि देवताः।
तेषां लोकाः परतरे यान्यजन्तीह देवताः ॥ 3-262-20(26028)
स्वयंप्रभास्ते भास्वन्तो लोकाः कामदुघाः परे।
न तेषां स्त्रीकृतस्तापो न भोगैश्वर्यमत्सरः ॥ 3-262-21(26029)
न वर्तयन्त्याहुतिभिस्ते नाप्यमृतभोजनाः।
तथा दिव्यशरीरास्ते न च विग्रहमूर्तयः ॥ 3-262-22(26030)
नासुखाः सुखकामास्ते देवदेवाः सनातनाः।
न कल्पपरिवर्तेषु परिवर्तन्ति ते तथा ॥ 3-262-23(26031)
रजरा मृत्युः कुतस्तेषां हर्षः प्रीतिः सुखं न च।
न दुःखं न सुखं चापि रागद्वेषौ कुतो मुने ॥ 3-262-24(26032)
देवानामपि मौद्गल्यकाङ्क्षिता सा गतिः परा।
दुष्प्रापा परमा सिद्धिरगम्या कामगोचरैः ॥ 3-262-25(26033)
त्रयस्त्रिंशदिमे लोकाः शेषा लोका मनीषिभिः।
गम्यन्ते नियमैः श्रेष्ठैर्दानैर्वा विधिपूर्वकैः ॥ 3-262-26(26034)
सेयं दानकृता व्युष्टिरनुप्राप्ता सुखं त्वया।
तां रभुङ्क्ष्व सुकृतैर्लब्धां तपसा द्योतितप्रभः ॥ 3-262-27(26035)
एतत्स्वर्गसुखं विप्र लोका नानाविधास्तथा।
गुणाः स्वर्गस्य प्रोक्तास्ते दोषानपि निबोध मे ॥ 3-262-28(26036)
कृस्य कर्मणस्तत्रभुज्यते यत्फलं दिवि।
न चान्त्क्रियते कर्म मूलच्छेदेन भुज्यते ॥ 3-262-29(26037)
सोऽत्रदोषो मम मतस्तस्यान्ते पतनं च यत्।
सुखव्याप्तमनस्कानां पतनं यच्च मुद्गल ॥ 3-262-30(26038)
असंतोषः परीतापो दृष्ट्वा दीप्ततराः श्रियः।
यद्भवत्यवरे स्थाने स्थितानां तत्सुदुष्करम् ॥ 3-262-31(26039)
संज्ञामोहश्चपततां रजसा च प्रधर्षणम्।
प्रम्लानेषु च माल्येषु ततः पिपतिषोर्भयम् ॥ 3-262-32(26040)
आब्रह्मभवनादेते दोषा मौद्गल्य दारुणाः।
नाकलोकेसुकृतिनां गुणास्त्वयुतशो नृणाम् ॥ 3-262-33(26041)
अयं त्वन्यो गुणः श्रेष्ठश्च्युतानां स्वर्गतो मुने।
शुभानुशययोगेन मनुष्येषूपजायते ॥ 3-262-34(26042)
तत्रापि स महाभागः कुले महति जायते।
न चेत्संबुध्यते तत्रगच्छत्यधमतां ततः ॥ 3-262-35(26043)
इह यत्क्रियते कर्म तत्परत्रोपभुज्यते।
कर्मभूमिरियं ब्रह्मन्फलभूमिरसौ मता ॥ 3-262-36(26044)
[मुद्गल उवाच। 3-262-37x(2640)
महान्तस्तु अमी दोपास्त्वया स्वर्गस्य कीर्तिताः।
निर्दोष एव यस्त्यन्यो लोकं तं प्रवदस्व मे ॥ 3-262-37(26045)
देवदूत उवाच। 3-262-38x(2641)
ब्रह्मणः सदनादूर्ध्वं तद्विष्णोः परमं पदम्।
शुद्धं सनातनं ज्योतिः परं ब्रह्मेति यद्विदुः ॥ 3-262-38(26046)
न तत्रविप्र गच्छन्ति पुरुषा विषयात्मकाः।
दम्भलोभमहाक्रोधमोहद्रोहैरभिद्रुताः ॥ 3-262-39(26047)
निर्ममा निरहंकारा निर्द्विन्द्वाः संयतेन्द्रियाः।
ध्यानयोगपराश्चैव तत्रगच्छन्ति मानवाः ॥] 3-262-40(26048)
एतत्ते सर्वमाख्यतं यन्मां पृच्छसि मुद्गल।
तवानुकम्पया साधो साधु गच्छाम माचिरम् ॥ 3-262-41(26049)
व्यास उवाच। 3-262-42x(2642)
एतच्छ्रुत्वा तु मौद्गल्यो वाक्यं विममृशे धिया।
विमृश्य च मुनिश्रेष्ठो देवदूतमुवाचह ॥ 3-262-42(26050)
देवदूत नमस्तेऽम्तु गच्छ तात यथासुखम्।
महादोषेण मे कार्यं न स्वर्गेण सुखेन चा ॥ 3-262-43(26051)
पतनान्ते महादुःखं परितापः सुदारुणः।
स्वर्गभाजः पतन्तीह तस्मात्स्वर्गं न कामये ॥ 3-262-44(26052)
यत्रगत्वान शोचन्ति न व्यथन्तिचलन्ति वा।
तदहं स्थानमत्यन्तं मार्गयिष्यामि केवलम् ॥ 3-262-45(26053)
इत्युक्त्वा स मुनिर्वाक्यं देवदूतंविसृज्य तम्।
शिलोञ्छवृत्तिमुत्सृज्य शममातिष्ठदुत्तमम् ॥ 3-262-46(26054)
तुल्यनिन्दास्तुतिर्भूत्वासमलोष्टाश्मकाञ्चनः।
ज्ञानयोगेन शुद्धेन ध्याननित्यो बभूव ह ॥ 3-262-47(26055)
`निगृहीतेन्द्रियग्रामः समयोजयदात्मनि।
युक्तचित्तं यथाऽऽत्मानं युयोज परमेश्वरे' ॥ 3-262-48(26056)
ध्यानयोगाद्बलं लब्ध्वा प्राप्य बुद्धिमनुत्तमाम्।
जगाम शाश्वतीं सिद्धिं परां निर्वाणलक्षणाम् ॥ 3-262-49(26057)
तस्मात्त्वमपिकौन्तेय न शोकं कर्तुमर्हसि।
राज्यात्स्फीतात्परिभ्रष्टस्तपसा तदवाप्स्यसि ॥ 3-262-50(26058)
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्।
पर्यायेणोपसर्पन्ते नरं नेमिमरा इव ॥ 3-262-51(26059)
पितृपैतामहं राज्यंप्राप्स्यस्यमितविक्रम।
वर्षात्रयोदशादूर्ध्वंव्येतु ते मानसो ज्वरः ॥ 3-262-52(26060)
वैशम्पायन उवाच। 3-262-53x(2643)
स एवमुक्त्वाभगवान्व्यासः पाण्डवनन्दनम्।
जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ॥ 3-262-53(26061)
इति श्रीमन्महाभारते अरण्यपर्वणि ब्रीहिद्रौणिकपर्वणि द्विषष्ट्यधिकद्विशततमोऽध्यायः ॥ 262 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-262-2 उपरिष्टाच्च स्वर्लोकः इति ख. झ. पाठः ॥ 3-262-3 पुसः पुमांसः ॥ 3-262-4 शूराश्चाहबलक्षणाः इति ख. झ. पाठः ॥ 3-262-6 यामा धामाश्च गणविशेषाः ॥ 3-262-7 देवानां निकाया आलया येषु तेषां देवनिकायानाम् ॥ 3-262-14 उपपद्यतामुपगच्छताम् ॥ 3-262-26 त्रयस्त्रिशदिमे देवा येषां लोका इति ख. झ. पाठः ॥ 3-262-27 व्युष्टिः संपत्तिः .। 3-262-51 नेमि चक्रधाराम्। अराः नामिनेमिसंधानदारूणि ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|